Sukta 1.95
द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्समुप धापयेते । हरिरन्यस्यां भवति स्वधावाञ्छुक्रो अन्यस्यां ददृशे सुवर्चाः ॥
द्वे विरू॑पे चरत॒: स्वर्थे॑ अ॒न्यान्या॑ व॒त्समुप॑ धापयेते । हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑ञ्छु॒क्रो अ॒न्यस्यां॑ ददृशे सु॒वर्चा॑: ॥
dvé virū́pe carataḥ svárthe anyā́nyā vatsám úpa dhāpayete | hárir anyasyā́ṃ bhávati svadhā́vāñ chukró anyasyā́ṃ dadṛśe suvárcāḥ ||
Two of unlike form move towards their own aim; each of the two makes the calf drink near her. In one the tawny one becomes self-lawed; in the other the bright one is seen, richly radiant.
द्वे । विरू॑पे॒ इति॒ विऽरू॑पे । च॒र॒तः॒ । स्वर्थे॒ इति॑ सु॒ऽअर्थे॑ । अ॒न्याऽअ॑न्या । व॒त्सम् । उप॑ । धा॒प॒ये॒ते॒ इति॑ । हरिः॑ । अ॒न्यस्या॑म् । भव॑ति । स्व॒धाऽवा॑न् । शु॒क्रः । अ॒न्यस्या॑म् । द॒दृ॒शे॒ । सु॒ऽवर्चाः॑ ॥द्वे । विरूपे इति विरूपे । चरतः । स्वर्थे इति सुअर्थे । अन्याअन्या । वत्सम् । उप । धापयेते इति । हरिः । अन्यस्याम् । भवति । स्वधावान् । शुक्रः । अन्यस्याम् । ददृशे । सुवर्चाः ॥dve | virūpeitivi-rūpe | carataḥ | svartheitisu-arthe | anyāanyā | vatsam | upa | dhāpayeteiti | hariḥ | anyasyām | bhavati | svadhāvān | śukraḥ | anyasyām | dadṛśe | su-varcāḥ