Sukta 1.90
शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥
शं नो॑ मि॒त्रः शं वरु॑ण॒: शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पति॒: शं नो॒ विष्णु॑रुरुक्र॒मः ॥
śáṃ no mitráḥ śáṃ váruṇaḥ śáṃ no bhavatv aryamā́ | śáṃ na índro bृहáspátiḥ śáṃ no víṣṇur urukramáḥ ||
Peace to us from Mitra, peace from Varuṇa; peace to us may Aryaman become. Peace to us from Indra and Bṛhaspati; peace to us from Viṣṇu of the wide stride—may all these powers establish harmony in our being.
शम् । नः॒ । मि॒त्रः । शम् । वरु॑णः॒ । शम् । नः॒ । भ॒व॒तु॒ । अ॒र्य॒मा । शम् । नः॒ । इन्द्रः॑ । बृह॒स्पतिः॑ । शम् । नः॒ । विष्णुः॑ । उ॒रु॒ऽक्र॒मः ॥शम् । नः । मित्रः । शम् । वरुणः । शम् । नः । भवतु । अर्यमा । शम् । नः । इन्द्रः । बृहस्पतिः । शम् । नः । विष्णुः । उरुक्रमः ॥śam | naḥ | mitraḥ | śam | varuṇaḥ | śam | naḥ | bhavatu | aryamā | śam | naḥ | indraḥ | bṛhaspatiḥ | śam | naḥ | viṣṇuḥ | uru-kramaḥ