Sukta 1.79
सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति । होता गृणीत उक्थ्यः ॥
स॒ह॒स्रा॒क्षो विच॑र्षणिर॒ग्नी रक्षां॑सि सेधति । होता॑ गृणीत उ॒क्थ्य॑: ॥
sahasrā́kṣo vícarṣaṇir agnī́ rakṣā́ṃsi sedhati | hótā gṛṇīta ukthyáḥ ||
Agni, thousand-eyed, wide-seeing among men, drives back the powers of obstruction; the invoking priest, rich in the word of revelation, gives voice (to him).
स॒ह॒स्र॒ऽअ॒क्षः । विऽच॑र्षणिः । अ॒ग्निः । रक्षां॑सि । से॒ध॒ति॒ । होता॑ । गृ॒णी॒ते॒ । उ॒क्थ्यः॑ ॥सहस्रअक्षः । विचर्षणिः । अग्निः । रक्षांसि । सेधति । होता । गृणीते । उक्थ्यः ॥sahasra-akṣaḥ | vi-carṣaṇiḥ | agniḥ | rakṣāṃsi | sedhati | hotā | gṛṇīte | ukthyaḥ