Sukta 1.78
अवोचाम रहूगणा अग्नये मधुमद्वचः । द्युम्नैरभि प्र णोनुमः ॥
अवो॑चाम॒ रहू॑गणा अ॒ग्नये॒ मधु॑म॒द्वच॑: । द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
ávocāma rahū́gaṇā agnáye mádhumad vácaḥ | dyumnáir abhí prá ṇónumaḥ ||
We, the Rahūgaṇas, have spoken to Agni a honeyed word—speech that carries delight and truth; with luminous powers we urge him forward within us.
अवो॑चाम । रहू॑गणाः । अ॒ग्नये॑ । मधु॑ऽमत् । वचः॑ । द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥अवोचाम । रहूगणाः । अग्नये । मधुमत् । वचः । द्युम्नैः । अभि । प्र । नोनुमः ॥avocāma | rahūgaṇāḥ | agnaye | madhu-mat | vacaḥ | dyumnaiḥ | abhi | pra | nonumaḥ