Sukta 1.76
यथा विप्रस्य मनुषो हविर्भिर्देवाँ अयजः कविभिः कविः सन् । एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व ॥
यथा॒ विप्र॑स्य॒ मनु॑षो ह॒विर्भि॑र्दे॒वाँ अय॑जः क॒विभि॑: क॒विः सन् । ए॒वा हो॑तः सत्यतर॒ त्वम॒द्याग्ने॑ म॒न्द्रया॑ जु॒ह्वा॑ यजस्व ॥
yáthā víprasya mánuṣo havírbhir devā́m̐ áyajaḥ kavíbhiḥ kavíḥ sán | evā́ hotaḥ satyátara tvám adyā́gne mandráyā júhvā yajasva ||
As you once, being the seer among seers, didst sacrifice to the Gods for the illumined mortal with his offerings, so now, O Hotṛ most true, O Agni, sacrifice today with the glad ladle of the will.
यथा॑ । विप्र॑स्य । मनु॑षः । ह॒विःऽभिः॑ । दे॒वान् । अय॑जः । क॒विऽभिः॑ । क॒विः । सन् । ए॒व । हो॒त॒रिति॑ । स॒त्य॒ऽत॒र॒ । त्वम् । अ॒द्य । अग्ने॑ । म॒न्द्रया॑ । जु॒ह्वा॑ । य॒ज॒स्व॒ ॥यथा । विप्रस्य । मनुषः । हविःभिः । देवान् । अयजः । कविभिः । कविः । सन् । एव । होतरिति । सत्यतर । त्वम् । अद्य । अग्ने । मन्द्रया । जुह्वा । यजस्व ॥yathā | viprasya | manuṣaḥ | haviḥ-bhiḥ | devān | ayajaḥ | kavi-bhiḥ | kaviḥ | san | eva | hotariti | satya-tara | tvam | adya | agne | mandrayā | juhvā | yajasva