Sukta 1.76
प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः । वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम् ॥
प्र॒जाव॑ता॒ वच॑सा॒ वह्नि॑रा॒सा च॑ हु॒वे नि च॑ सत्सी॒ह दे॒वैः । वेषि॑ हो॒त्रमु॒त पो॒त्रं य॑जत्र बो॒धि प्र॑यन्तर्जनित॒र्वसू॑नाम् ॥
prajā́vatā vácasā váhniḥ āsā́ ca huvé ní ca satsīhá deváiḥ | véṣi hotrám utá potrám yajatra bódhi práyantar janitár vásūnām ||
With a word full of creative power I call you, O bearer of the flame; come and sit here with the Gods. You carry the office of invocation and also of purification; awaken as the forward-moving one, O begetter of the riches of being.
प्र॒जाव॑ता । वच॑सा । वह्निः॑ । आ॒सा । आ । च॒ । हु॒वे । नि । च॒ । स॒त्सि॒ । इ॒ह । दे॒वैः । वेषि॑ । हो॒त्रम् । उ॒त । पो॒त्रम् । य॒ज॒त्र॒ । बो॒धि । प्र॒ऽय॒न्तः॒ । ज॒नि॒तः॒ । वसू॑नाम् ॥प्रजावता । वचसा । वह्निः । आसा । आ । च । हुवे । नि । च । सत्सि । इह । देवैः । वेषि । होत्रम् । उत । पोत्रम् । यजत्र । बोधि । प्रयन्तः । जनितः । वसूनाम् ॥prajāvatā | vacasā | vahniḥ | āsā | ā | ca | huve | ni | ca | satsi | iha | devaiḥ | veṣi | hotram | uta | potram | yajatra | bodhi | pra-yantaḥ | janitaḥ | vasūnām