Sukta 1.76
एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः । अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥
एह्य॑ग्न इ॒ह होता॒ नि षी॒दाद॑ब्ध॒: सु पु॑रए॒ता भ॑वा नः । अव॑तां त्वा॒ रोद॑सी विश्वमि॒न्वे यजा॑ म॒हे सौ॑मन॒साय॑ दे॒वान् ॥
éhya agne ihá hótā ní ṣīdā́dabdhaḥ sú puraetā bhavā naḥ | ávatāṃ tvā ródasī viśváminve yájā mahé sáumanasāya devā́n ||
Come here, O Agni; sit down here as the inviolable priest. Become for us the good leader who goes in front. May Heaven and Earth, the all-stimulating pair, uphold you. Sacrifice to the Gods for the great harmony of our soul-nature.
आ । इ॒हि॒ । अ॒ग्ने॒ । इ॒ह । होता॑ । नि । सी॒द॒ । अद॑ब्धः । सु । पु॒रः॒ऽए॒ता । भ॒व॒ । नः॒ । अव॑ताम् । त्वा॒ । रोद॑सी॒ इति॑ । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे । यज॑ । म॒हे । सौ॒म॒न॒साय॑ । दे॒वान् ॥आ । इहि । अग्ने । इह । होता । नि । सीद । अदब्धः । सु । पुरःएता । भव । नः । अवताम् । त्वा । रोदसी इति । विश्वमिन्वे इति विश्वम्इन्वे । यज । महे । सौमनसाय । देवान् ॥ā | ihi | agne | iha | hotā | ni | sīda | adabdhaḥ | su | puraḥ-etā | bhava | naḥ | avatām | tvā | rodasī iti | viśvaminve itiviśvam-inve | yaja | mahe | saumanasāya | devān