Sukta 1.74
उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये । आरे अस्मे च शृण्वते ॥
उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ । आ॒रे अ॒स्मे च॑ शृण्व॒ते ॥
upa-prayánto adhvaráṃ mántraṃ vocemā́gnáye | āré asmè ca śṛṇvaté ||
As we advance toward the inner sacrifice, we would speak the mantra to Agni—may he hear us from afar and also here within (close at hand).
उ॒प॒ऽप्र॒यन्तः॑ । अ॒ध्व॒रम् । मन्त्र॑म् । वो॒चे॒म॒ । अ॒ग्नये॑ । आ॒रे । अ॒स्मे इति॑ । च॒ । शृ॒ण्व॒ते ॥उपप्रयन्तः । अध्वरम् । मन्त्रम् । वोचेम । अग्नये । आरे । अस्मे इति । च । शृण्वते ॥upa-prayantaḥ | adhvaram | mantram | vocema | agnaye | āre | asme iti | ca | śṛṇvate