Sukta 1.62
सनायते गोतम इन्द्र नव्यमतक्षद्ब्रह्म हरियोजनाय । सुनीथाय नः शवसान नोधाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥
स॒ना॒य॒ते गोत॑म इन्द्र॒ नव्य॒मत॑क्ष॒द्ब्रह्म॑ हरि॒योज॑नाय । सु॒नी॒थाय॑ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
sanāyáte gotamá indra návyaṃ atakṣad bráhma hari-yojánāya | su-nīthā́ya naḥ śavasāna nodhā́ḥ prātár makṣū́ dhiyā́vasur jagamyāt ||
For the eternal becoming, Gotama has fashioned for you, O Indra, a new-forming word of power, to yoke your luminous steeds. For our right-leading, may Nodhā, full of force, come swiftly at the dawn—rich in inspired thought and its treasures.
स॒ना॒य॒ते । गोत॑मः । इ॒न्द्र॒ । नव्य॑म् । अत॑क्षत् । ब्रह्म॑ । ह॒रि॒ऽयोज॑नाय । सु॒ऽनी॒थाय॑ । नः॒ । श॒व॒सा॒न॒ । नो॒धाः । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥सनायते । गोतमः । इन्द्र । नव्यम् । अतक्षत् । ब्रह्म । हरियोजनाय । सुनीथाय । नः । शवसान । नोधाः । प्रातः । मक्षु । धियावसुः । जगम्यात् ॥sanāyate | gotamaḥ | indra | navyam | atakṣat | brahma | hari-yojanāya | su-nīthāya | naḥ | śavasāna | nodhāḥ | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt