Sukta 1.61
अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः । युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥
अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः । यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ॥
asyédu prá brūhi pū́rvyāṇi turásya kármāṇi návya ukthaíḥ | yudhḗ yád iṣṇāná ā́yudhāni ṛghāyámāṇo ní-riṇāti śátrūn ||
Tell forth, with ever-new utterances, the ancient works of this swift Power: how in battle, whetting his weapons, pressing forward in the assault, he drives the enemies out and down—casting them from their hold.
अ॒स्य । इत् । ऊँ॒ इति॑ । प्र । ब्रू॒हि॒ । पू॒र्व्याणि॑ । तु॒रस्य॑ । कर्मा॑णि । नव्यः॑ । उ॒क्थैः । यु॒धे । यत् । इ॒ष्णा॒नः । आयु॑धानि । ऋ॒घा॒यमा॑णः । नि॒ऽरि॒णाति॑ । शत्रू॑न् ॥अस्य । इत् । ऊँ इति । प्र । ब्रूहि । पूर्व्याणि । तुरस्य । कर्माणि । नव्यः । उक्थैः । युधे । यत् । इष्णानः । आयुधानि । ऋघायमाणः । निरिणाति । शत्रून् ॥asya | it | oṃ iti | pra | brūhi | pūrvyāṇi | turasya | karmāṇi | navyaḥ | ukthaiḥ | yudhe | yat | iṣṇānaḥ | āyudhāni | ṛghāyamāṇaḥ | ni-riṇāti | śatrūn