Sukta 1.53
न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः । नू चिद्धि रत्नं ससतामिवाविदन्न दुःष्टुतिर्द्रविणोदेषु शस्यते ॥
न्यू॒३॒॑ षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः । नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑द॒न्न दु॑:ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ॥
nyù̄ ṣú vā́caṃ prá mahé bharāmahe gíra índrāya sádane vivásvataḥ | nū́ ciddhí rátnaṃ sasatā́m ivā́vidan ná duḥ-stutír dráviṇo-deṣú śasyate ||
Now indeed we bring forward a new speech for the Great One—songs for Indra in the seat of the Radiant. For even now the treasure is found, as by those who strive; no ill-praise is celebrated among the givers of plenitude.
नि । ऊँ॒ इति॑ । सु । वाच॑म् । प्र । म॒हे । भ॒रा॒म॒हे॒ । गिरः॑ । इन्द्रा॑य । सद॑ने । वि॒वस्व॑तः । नु । चि॒त् । हि । रत्न॑म् । स॒स॒ताम्ऽइ॑व । अवि॑दत् । न । दुः॒ऽस्तु॒तिः । द्र॒वि॒णः॒ऽदेषु॑ । श॒स्य॒ते॒ ॥नि । ऊँ इति । सु । वाचम् । प्र । महे । भरामहे । गिरः । इन्द्राय । सदने । विवस्वतः । नु । चित् । हि । रत्नम् । ससताम्इव । अविदत् । न । दुःस्तुतिः । द्रविणःदेषु । शस्यते ॥ni | oṃ iti | su | vācam | pra | mahe | bharāmahe | giraḥ | indrāya | sadane | vivasvataḥ | nu | cit | hi | ratnam | sasatām-iva | avidat | na | duḥ-stutiḥ | draviṇaḥ-deṣu | śasyate