Sukta 1.43
अस्मे सोम श्रियमधि नि धेहि शतस्य नृणाम् । महि श्रवस्तुविनृम्णम् ॥
अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णाम् । महि॒ श्रव॑स्तुविनृ॒म्णम् ॥
asmé sóma śríyam ádhi ní dhehi śatásya nṛṇā́m | máhi śrávas tuvínṛmṇam ||
In us, O Soma, set and establish the radiance of fulfilment—an abundance for a hundred powers of man; establish a great fame, a vast and forceful might of the soul.
अ॒स्मे इति॑ । सो॒म॒ । श्रिय॑म् । अधि॑ । नि । धे॒हि॒ । श॒तस्य॑ । नृ॒णाम् । महि॑ । श्रवः॑ । तु॒वि॒ऽनृ॒म्णम् ॥अस्मे इति । सोम । श्रियम् । अधि । नि । धेहि । शतस्य । नृणाम् । महि । श्रवः । तुविनृम्णम् ॥asme iti | soma | śriyam | adhi | ni | dhehi | śatasya | nṛṇām | mahi | śravaḥ | tuvi-nṛmṇam