Sukta 1.40
उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा ॥
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे । उप॒ प्र य॑न्तु म॒रुत॑: सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ॥
uttíṣṭha brahmaṇaspate deva-yántaḥ tvemáhe | úpa prá yantu marútaḥ su-dā́nava índra prāśū́r bhavā sácā ||
Rise up, O Lord of the Word; we who seek the Divine call thee. Let the bounteous Maruts come forward; and thou, O Indra, become our swift impeller, present with us in the march of the sacrifice.
उत् । ति॒ष्ठ॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ । दे॒व॒ऽयन्तः॑ । त्वा॒ । ई॒म॒हे॒ । उप॑ । प्र । य॒न्तु॒ । म॒रुतः॑ । सु॒ऽदान॑वः । इन्द्र॑ । प्रा॒सूः । भ॒व॒ । सचा॑ ॥उत् । तिष्ठ । ब्रह्मणः । पते । देवयन्तः । त्वा । ईमहे । उप । प्र । यन्तु । मरुतः । सुदानवः । इन्द्र । प्रासूः । भव । सचा ॥ut | tiṣṭha | brahmaṇaḥ | pate | deva-yantaḥ | tvā | īmahe | upa | pra | yantu | marutaḥ | su-dānavaḥ | indra | prāsūḥ | bhava | sacā