Sukta 1.39
प्र यदित्था परावतः शोचिर्न मानमस्यथ । कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥
प्र यदि॒त्था प॑रा॒वत॑: शो॒चिर्न मान॒मस्य॑थ । कस्य॒ क्रत्वा॑ मरुत॒: कस्य॒ वर्प॑सा॒ कं या॑थ॒ कं ह॑ धूतयः ॥
prá yád itthā̀ parāvátaḥ śócīr ná mānám ásyatha | kásya krátvā marutaḥ kásya várpasā káṃ yātha káṃ ha dhūtayaḥ ||
When you surge forth thus from the far spaces, like a flame you cast your might into motion—by whose will, O Maruts, by whose radiant form do you go? whom do you seek, O shakers of the worlds?
प्र । यत् । इ॒त्था । प॒रा॒ऽवतः॑ । शो॒चिः । न । मान॑म् । अस्य॑थ । कस्य॑ । क्रत्वा॑ । मरुतः॑ । कस्य॑ । वर्प॑सा । कम् । या॒थ॒ । कम् । ह॒ । धू॒त॒यः॒ ॥प्र । यत् । इत्था । परावतः । शोचिः । न । मानम् । अस्यथ । कस्य । क्रत्वा । मरुतः । कस्य । वर्पसा । कम् । याथ । कम् । ह । धूतयः ॥pra | yat | itthā | parāvataḥ | śociḥ | na | mānam | asyatha | kasya | kratvā | marutaḥ | kasya | varpasā | kam | yātha | kam | ha | dhūtayaḥ