Sukta 1.38
सत्यं त्वेषा अमवन्तो धन्वञ्चिदा रुद्रियासः । मिहं कृण्वन्त्यवाताम् ॥
स॒त्यं त्वे॒षा अम॑वन्तो॒ धन्व॑ञ्चि॒दा रु॒द्रिया॑सः । मिहं॑ कृण्वन्त्यवा॒ताम् ॥
satyáṃ tvéṣā́ amávanto dhánvaṃ cid ā́ rudríyāsaḥ | míhaṃ kṛṇvanty avātā́m ||
Truly, the blazing, might-filled Rudriyas—even over the dry waste—make the clouding rain; they bring down the covering waters that prepare a new fullness in the being.
स॒त्यम् । त्वे॒षाः । अम॑ऽवन्तः । धन्व॑म् । चि॒त् । आ । रु॒द्रिया॑सः । मिह॑म् । कृ॒ण्व॒न्ति॒ । अ॒वा॒ताम् ॥सत्यम् । त्वेषाः । अमवन्तः । धन्वम् । चित् । आ । रुद्रियासः । मिहम् । कृण्वन्ति । अवाताम् ॥satyam | tveṣāḥ | ama-vantaḥ | dhanvam | cit | ā | rudriyāsaḥ | miham | kṛṇvanti | avātām