Sukta 1.38
क्व नूनं कद्वो अर्थं गन्ता दिवो न पृथिव्याः । क्व वो गावो न रण्यन्ति ॥
क्व॑ नू॒नं कद्वो॒ अर्थं॒ गन्ता॑ दि॒वो न पृ॑थि॒व्याः । क्व॑ वो॒ गावो॒ न र॑ण्यन्ति ॥
kvá nū́naṃ kád vo árthaṃ gántā divó ná pṛthivyā́ḥ | kvá vo gā́vo ná raṇyanti ||
Where now, for what purpose, will you go—whether from heaven or from earth? Where are your luminous ‘cows’ that delight and resound: where is that herd of rays by which you gladden the seeker?
क्व॑ । नू॒नम् । कत् । वः॒ । अर्थ॑म् । गन्ता॑ । दि॒वः । न । पृ॒थि॒व्याः । क्व॑ । वः॒ । गावः॑ । न । र॒ण्य॒न्ति॒ ॥क्व । नूनम् । कत् । वः । अर्थम् । गन्ता । दिवः । न । पृथिव्याः । क्व । वः । गावः । न । रण्यन्ति ॥kva | nūnam | kat | vaḥ | artham | gantā | divaḥ | na | pṛthivyāḥ | kva | vaḥ | gāvaḥ | na | raṇyanti