Sukta 1.38
कद्ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः । दधिध्वे वृक्तबर्हिषः ॥
कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः । द॒धि॒ध्वे वृ॑क्तबर्हिषः ॥
kád dha nū́naṃ kadha-priyáḥ pitā́ putráṃ ná hástayoh | dadhidhvé vṛktá-barhiṣaḥ ||
What now is your delight, O lovers of the ‘kádha’—as a father holds a son in his hands—so do you take up and bear our offering, you whose seat of sacrifice is prepared and cleared.
कत् । ह॒ । नू॒नम् । क॒ध॒ऽप्रि॒यः॒ । पि॒ता । पु॒त्रम् । न । हस्त॑योः । द॒धि॒ध्वे । वृ॒क्त॒ऽब॒र्हि॒षः॒ ॥कत् । ह । नूनम् । कधप्रियः । पिता । पुत्रम् । न । हस्तयोः । दधिध्वे । वृक्तबर्हिषः ॥kat | ha | nūnam | kadha-priyaḥ | pitā | putram | na | hastayoḥ | dadhidhve | vṛkta-barhiṣaḥ