Sukta 1.38
वन्दस्व मारुतं गणं त्वेषं पनस्युमर्किणम् । अस्मे वृद्धा असन्निह ॥
वन्द॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किण॑म् । अ॒स्मे वृ॒द्धा अ॑सन्नि॒ह ॥
vándasva mārútaṃ gaṇáṃ tvéṣaṃ panasyúm arkíṇam | asmè vṛ́ddhā asann ihá ||
Adore the Marut-host—impetuous, eager for the increase, rich in the flame of inspired chant. May they grow mighty here within us, for our becoming.
वन्द॑स्व । मारु॑तम् । ग॒णम् । त्वे॒षम् । प॒न॒स्युम् । अ॒र्किण॑म् । अ॒स्मे इति॑ । वृ॒द्धाः । अ॒स॒न् । इ॒ह ॥वन्दस्व । मारुतम् । गणम् । त्वेषम् । पनस्युम् । अर्किणम् । अस्मे इति । वृद्धाः । असन् । इह ॥vandasva | mārutam | gaṇam | tveṣam | panasyum | arkiṇam | asme iti | vṛddhāḥ | asan | iha