Sukta 1.32
इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः । सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥
इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा॒ शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः । सेदु॒ राजा॑ क्षयति चर्षणी॒नाम॒रान्न ने॒मिः परि॒ ता ब॑भूव ॥
índro yātó’vásitasya rājā śámasya ca śṛṅgíṇo vájrabāhuḥ | séd u rājā kṣayati carṣaṇīnā́m arā́n ná némih pári tā́ babhūva ||
Indra has come as king of the settled foundation and of the peace; horned in power, with the thunder-weapon in his arm. He indeed rules as king over the peoples, encompassing them as the rim encircles the spokes—holding the order of the movement together.
इन्द्रः॑ । या॒तः । अव॑ऽसितस्य । राजा॑ । शम॑स्य । च॒ । शृ॒ङ्गिणः॑ । वज्र॑ऽबाहुः । सः । इत् । ऊँ॒ इति॑ । राजा॑ । क्ष॒य॒ति॒ । च॒र्ष॒णी॒नाम् । अ॒रान् । न । ने॒मिः । परि॑ । ता । ब॒भू॒व॒ ॥इन्द्रः । यातः । अवसितस्य । राजा । शमस्य । च । शृङ्गिणः । वज्रबाहुः । सः । इत् । ऊँ इति । राजा । क्षयति । चर्षणीनाम् । अरान् । न । नेमिः । परि । ता । बभूव ॥indraḥ | yātaḥ | ava-sitasya | rājā | śamasya | ca | śṛṅgiṇaḥ | vajra-bāhuḥ | saḥ | it | oṃ iti | rājā | kṣayati | carṣaṇīnām | arān | na | nemiḥ | pari | tā | babhūva