Sukta 1.31
इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरात् । आपिः पिता प्रमतिः सोम्यानां भृमिरस्यृषिकृन्मर्त्यानाम् ॥
इ॒माम॑ग्ने श॒रणिं॑ मीमृषो न इ॒ममध्वा॑नं॒ यमगा॑म दू॒रात् । आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन्मर्त्या॑नाम् ॥
imām agne śaraṇiṃ mīmṛṣo na imam adhvānaṃ yam agāma dūrāt | āpiḥ pitā pra-matiḥ somyānāṃ bhṛmir asy ṛṣi-kṛn martyānām ||
O Agni, lead us safely to this refuge; guard this path on which we have come from afar. You are the near-help and the father, the guiding intelligence of those who seek the Soma; you are the moving power that makes seers out of mortals.
इ॒माम् । अ॒ग्ने॒ । श॒रणि॑म् । मी॒मृ॒षः॒ । नः॒ । इ॒मम् । अध्वा॑नम् । यम् । अगा॑म । दू॒रात् । आ॒पिः । पि॒ता । प्रऽम॑तिः । सो॒म्याना॑म् । भृमिः॑ । अ॒सि॒ । ऋ॒षि॒ऽकृत् । मर्त्या॑नाम् ॥इमाम् । अग्ने । शरणिम् । मीमृषः । नः । इमम् । अध्वानम् । यम् । अगाम । दूरात् । आपिः । पिता । प्रमतिः । सोम्यानाम् । भृमिः । असि । ऋषिकृत् । मर्त्यानाम् ॥imām | agne | śaraṇim | mīmṛṣaḥ | naḥ | imam | adhvānam | yam | agāma | dūrāt | āpiḥ | pitā | pra-matiḥ | somyānām | bhṛmiḥ | asi | ṛṣi-kṛt | martyānām