Sukta 1.25
अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति । कृतानि या च कर्त्वा ॥
अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ अ॒भि प॑श्यति । कृ॒तानि॒ या च॒ कर्त्वा॑ ॥
ató víśvāny ádbhūtā cikitvā́n abhí paśyati | kṛtā́ni yā́ ca kártvā ||
Therefore the discerning one looks upon all wonders—what has been done and what remains to be done; thus Varuṇa’s seeing becomes the light that compels our works into truth.
अतः॑ । विश्वा॑नि । अद्भु॑ता । चि॒कि॒त्वान् । अ॒भि । प॒श्य॒ति॒ । कृ॒तानि॑ । या । च॒ । कर्त्वा॑ ॥अतः । विश्वानि । अद्भुता । चिकित्वान् । अभि । पश्यति । कृतानि । या । च । कर्त्वा ॥ataḥ | viśvāni | adbhutā | cikitvān | abhi | paśyati | kṛtāni | yā | ca | kartvā