Sukta 1.23
इदमापः प्र वहत यत्किं च दुरितं मयि । यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥
इ॒दमा॑प॒: प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ । यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥
idám ā́paḥ prá vahata yát kíṃ ca duritáṃ máyi | yád vā́ham abhi-dudróha yád vā śépe utā́nṛtam ||
O Waters, carry forward and away whatever distress and crookedness is lodged in me—whether I have turned in revolt, or whether by impulsive speech I have uttered falsehood.
इ॒दम् । आ॒पः॒ । प्र । व॒ह॒त॒ । यत् । किम् । च॒ । दु॒रि॒तम् । मयि॑ । यत् । वा॒ । अ॒हम् । अ॒भि॒ऽदु॒द्रोह॑ । यत् । वा॒ । शे॒पे । उ॒त । अनृ॑तम् ॥इदम् । आपः । प्र । वहत । यत् । किम् । च । दुरितम् । मयि । यत् । वा । अहम् । अभिदुद्रोह । यत् । वा । शेपे । उत । अनृतम् ॥idam | āpaḥ | pra | vahata | yat | kim | ca | duritam | mayi | yat | vā | aham | abhi-dudroha | yat | vā | śepe | uta | anṛtam