Sukta 1.22
विभक्तारं हवामहे वसोश्चित्रस्य राधसः । सवितारं नृचक्षसम् ॥
वि॒भ॒क्तारं॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः । स॒वि॒तारं॑ नृ॒चक्ष॑सम् ॥
vibhaktā́raṃ havāmahe vásoś citrásya rā́dhasaḥ | savitā́raṃ nṛcákṣasam ||
We call Savitṛ, the Distributor of the rich and variegated plenitudes; the Seer of men—who looks into our nature and apportions the right share of force for the journey.
वि॒ऽभ॒क्तार॑म् । ह॒वा॒म॒हे॒ । वसोः॑ । चि॒त्रस्य॑ । राध॑सः । स॒वि॒तार॑म् । नृ॒ऽचक्ष॑सम् ॥विभक्तारम् । हवामहे । वसोः । चित्रस्य । राधसः । सवितारम् । नृचक्षसम् ॥vi-bhaktāram | havāmahe | vasoḥ | citrasya | rādhasaḥ | savitāram | nṛ-cakṣasam