Sukta 1.22
प्रातर्युजा वि बोधयाश्विनावेह गच्छताम् । अस्य सोमस्य पीतये ॥
प्रा॒त॒र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छताम् । अ॒स्य सोम॑स्य पी॒तये॑ ॥
prātar-yújā ví bodhayāśvināvéha gacchatām | asyá sómasya pītáye ||
Awaken the two dawn-yoked powers; O Aśvins, come here for the drinking of this Soma—so the first light in us may become swift and effective.
प्रा॒तः॒ऽयुजा॑ । वि । बो॒ध॒य॒ । अ॒श्विनौ॑ । आ । इ॒ह । ग॒च्छ॒ता॒म् । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥प्रातःयुजा । वि । बोधय । अश्विनौ । आ । इह । गच्छताम् । अस्य । सोमस्य । पीतये ॥prātaḥ-yujā | vi | bodhaya | aśvinau | ā | iha | gacchatām | asya | somasya | pītaye