Sukta 1.191
कङ्कतो न कङ्कतोऽथो सतीनकङ्कतः । द्वाविति प्लुषी इति न्यदृष्टा अलिप्सत ॥
कङ्क॑तो॒ न कङ्क॒तोऽथो॑ सती॒नक॑ङ्कतः । द्वाविति॒ प्लुषी॒ इति॒ न्य१॒॑दृष्टा॑ अलिप्सत ॥
káṅkato ná káṅkato ’thó satī́na-káṅkataḥ | dvā́v íti pluṣī́ íti ny àdṛ́ṣṭā alipsata ||
Not the visible stinger, not the visible stinger—nor the hidden stinger; ‘two’, they say, ‘the biting pair’: the unseen ones have fastened themselves down upon us.
कङ्क॑तः । न । कङ्क॑तः । अथो॒ इति॑ । स॒ती॒नऽक॑ङ्कतः । द्वौ । इति॑ । प्लुषी॒ इति॑ । इति॑ । नि । अ॒दृष्टाः॑ । अ॒लि॒प्स॒त॒ ॥कङ्कतः । न । कङ्कतः । अथो इति । सतीनकङ्कतः । द्वौ । इति । प्लुषी इति । इति । नि । अदृष्टाः । अलिप्सत ॥kaṅkataḥ | na | kaṅkataḥ | atho iti | satīna-kaṅkataḥ | dvau | iti | pluṣī iti | iti | ni | adṛṣṭāḥ | alipsata