Sukta 1.189
त्वं ताँ अग्न उभयान्वि विद्वान्वेषि प्रपित्वे मनुषो यजत्र । अभिपित्वे मनवे शास्यो भूर्मर्मृजेन्य उशिग्भिर्नाक्रः ॥
त्वं ताँ अ॑ग्न उ॒भया॒न्वि वि॒द्वान्वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र । अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो॑ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ॥
tváṃ tā́m̐ agna ubhayā́n ví vidvā́n véṣi prapitvé mánuṣo yajatra | abhípitve mánave śā́syo bhūr marmṛjényā uśígbhir nā́kraḥ ||
You, O Agni, know both sides and lead in the forefathers’ reach and in the human reach, O worthy of sacrifice. In the nearer reach for man, become our guide and governor, purified and purifying with the seekers, never failing.
त्वम् । ताम् । अ॒ग्ने॒ । उ॒भया॑न् । वि । वि॒द्वान् । वेषि॑ । प्र॒ऽपि॒त्वे । मनु॑षः । य॒ज॒त्र॒ । अ॒भि॒ऽपि॒त्वे । मन॑वे । शास्यः॑ । भूः॒ । म॒र्मृ॒जेन्यः॑ । उ॒शिक्ऽभिः । न । अ॒क्रः ॥त्वम् । ताम् । अग्ने । उभयान् । वि । विद्वान् । वेषि । प्रपित्वे । मनुषः । यजत्र । अभिपित्वे । मनवे । शास्यः । भूः । मर्मृजेन्यः । उशिक्भिः । न । अक्रः ॥tvam | tām | agne | ubhayān | vi | vidvān | veṣi | pra-pitve | manuṣaḥ | yajatra | abhi-pitve | manave | śāsyaḥ | bhūḥ | marmṛjenyaḥ | uśik-bhiḥ | na | akraḥ