Sukta 1.189
अग्ने त्वं पारया नव्यो अस्मान्त्स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥
अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः ॥
agné tváṃ pāraya nā́vyo asmā́n svastíbhir áti durgā́ṇi víśvā | pū́ś ca pṛthvī́ bahulā́ na urvī́ bhávā tokā́ya tánayāya śáṃ yóḥ ||
O Agni, newly manifest, carry us across all difficult passages by your powers of well-being; and may the wide and abundant Earth become for us a secure fullness—peace and ease for our offspring and the growth of our being.
अग्ने॑ । त्वम् । पा॒र॒य॒ । नव्यः॑ । अ॒स्मान् । स्व॒स्तिऽभिः॑ । अति॑ । दुः॒ऽगाणि॑ । विश्वा॑ । पूः । च॒ । पृ॒थ्वी । ब॒हु॒ला । नः॒ । उ॒र्वी । भव॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥अग्ने । त्वम् । पारय । नव्यः । अस्मान् । स्वस्तिभिः । अति । दुःगाणि । विश्वा । पूः । च । पृथ्वी । बहुला । नः । उर्वी । भव । तोकाय । तनयाय । शम् । योः ॥agne | tvam | pāraya | navyaḥ | asmān | svasti-bhiḥ | ati | duḥ-gāṇi | viśvā | pūḥ | ca | pṛthvī | bahulā | naḥ | urvī | bhava | tokāya | tanayāya | śam | yoḥ