Sukta 1.188
प्राचीनं बर्हिरोजसा सहस्रवीरमस्तृणन् । यत्रादित्या विराजथ ॥
प्रा॒चीनं॑ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् । यत्रा॑दित्या वि॒राज॑थ ॥
prācī́naṃ bárhir ójasā sahásravīram astṛṇan | yátrādityā́ virā́jatha ||
They have spread the sacred grass eastward with force, rich in a thousand heroic energies—there where the Ādityas shine in wide sovereignty. Let that prepared foundation become our field of luminous order.
प्रा॒चीन॑म् । ब॒र्हिः । ओज॑सा । स॒हस्र॑ऽवीरम् । अ॒स्तृ॒ण॒न् । यत्र॑ । आ॒दि॒त्याः॒ । वि॒ऽराज॑थ ॥प्राचीनम् । बर्हिः । ओजसा । सहस्रवीरम् । अस्तृणन् । यत्र । आदित्याः । विराजथ ॥prācīnam | barhiḥ | ojasā | sahasra-vīram | astṛṇan | yatra | ādityāḥ | vi-rājatha