Sukta 1.188
तनूनपादृतं यते मध्वा यज्ञः समज्यते । दधत्सहस्रिणीरिषः ॥
तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते । दध॑त्सह॒स्रिणी॒रिष॑: ॥
tanū́napād ṛtáṃ yaté madhvā́ yajñáḥ sám ajyate | dádhat sahasríṇīr íṣaḥ ||
O Tanūnapāt, as one moves in the Truth, the sacrifice is anointed with sweetness; it bears within it the thousandfold impulsions of force—nourishments that multiply the soul’s power of progress.
तनू॑ऽनपात् । ऋ॒तम् । य॒ते । मध्वा॑ । य॒ज्ञः । सम् । अ॒ज्य॒ते॒ । दध॑त् । स॒ह॒स्रिणीः॑ । इषः॑ ॥तनूनपात् । ऋतम् । यते । मध्वा । यज्ञः । सम् । अज्यते । दधत् । सहस्रिणीः । इषः ॥tanū-napāt | ṛtam | yate | madhvā | yajñaḥ | sam | ajyate | dadhat | sahasriṇīḥ | iṣaḥ