Sukta 1.187
तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम । देवेभ्यस्त्वा सधमादमस्मभ्यं त्वा सधमादम् ॥
तं त्वा॑ व॒यं पि॑तो॒ वचो॑भि॒र्गावो॒ न ह॒व्या सु॑षूदिम । दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं॑ त्वा सध॒माद॑म् ॥
táṁ tvā vayáṁ pito vácobhir gā́vo na havyā́ susūdima | devébhyaḥ tvā sadhamā́dam asmábhyaṁ tvā sadhamā́dam ||
You—O Drink—we press and set aflame by our words, as cows (rays of light) press toward the offering. For the gods we prepare you for the shared joy; for us too we prepare you for the shared joy.
त्वम् । त्वा॑ । व॒यम् । पि॒तो॒ इति॑ । वचः॑ऽभिः । गावः॑ । न । ह॒व्या । सु॒सू॒दि॒म॒ । दे॒वेभ्यः॑ । त्वा॒ । स॒ध॒ऽमाद॑म् । अ॒स्मभ्य॑म् । त्वा॒ । स्ध॒ऽमाद॑म् ॥त्वम् । त्वा । वयम् । पितो इति । वचःभिः । गावः । न । हव्या । सुसूदिम । देवेभ्यः । त्वा । सधमादम् । अस्मभ्यम् । त्वा । स्धमादम् ॥tvam | tvā | vayam | pito iti | vacaḥ-bhiḥ | gāvaḥ | na | havyā | susūdima | devebhyaḥ | tvā | sadha-mādam | asmabhyam | tvā | sdha-mādam