Sukta 1.176
यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु । स्पाशयस्व यो अस्मध्रुग्दिव्येवाशनिर्जहि ॥
यस्य॒ विश्वा॑नि॒ हस्त॑यो॒: पञ्च॑ क्षिती॒नां वसु॑ । स्पा॒शय॑स्व॒ यो अ॑स्म॒ध्रुग्दि॒व्येवा॒शनि॑र्जहि ॥
yásya víśvāni hástayoḥ páñca kṣitī́nāṃ vásu | spāśáyasva yó asmádhrug divyéva ā́śanir jahi ||
He in whose hands are all treasures of the five peoples—make them manifest for us. And whoever strikes against us, smite him like a divine thunderbolt; let the luminous power protect the right work and scatter the assailing darkness.
यस्य॑ । विश्वा॑नि । हस्त॑योः । पञ्च॑ । क्षि॒ती॒नाम् । वसु॑ । स्पा॒शय॑स्व । यः । अ॒स्म॒ऽध्रुक् । दि॒व्याऽइ॑व । अ॒शनिः॑ । ज॒हि॒ ॥यस्य । विश्वानि । हस्तयोः । पञ्च । क्षितीनाम् । वसु । स्पाशयस्व । यः । अस्मध्रुक् । दिव्याइव । अशनिः । जहि ॥yasya | viśvāni | hastayoḥ | pañca | kṣitīnām | vasu | spāśayasva | yaḥ | asma-dhruk | divyāiva | aśaniḥ | jahi