Sukta 1.174
त्वमस्माकमिन्द्र विश्वध स्या अवृकतमो नरां नृपाता । स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ॥
त्वम॒स्माक॑मिन्द्र वि॒श्वध॑ स्या अवृ॒कत॑मो न॒रां नृ॑पा॒ता । स नो॒ विश्वा॑सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
tvám asmā́kam indra viśvádha syā avṛ́ka-tamo narā́ṃ nṛ-pātā́ | sá no víśvāsāṃ spṛdhā́ṃ sahó-dā vidyā́meṣaṃ vṛ́janaṃ jīrá-dānum ||
Be thou wholly ours, O Indra, in every way; most wolf-proof guardian of men, protector of the human king-force. Then, giver of might, may we know and win the impelling plenitude, the battle-host, the swift-giving bounty.
त्वम् । अ॒स्माक॑म् । इ॒न्द्र॒ । वि॒श्वध॑ । स्याः॒ । अ॒वृ॒कऽत॑मः । न॒रान् । नृ॒ऽपा॒ता । सः । नः॒ । विश्वा॑साम् । स्पृ॒धाम् । स॒हः॒ऽदाः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥त्वम् । अस्माकम् । इन्द्र । विश्वध । स्याः । अवृकतमः । नरान् । नृपाता । सः । नः । विश्वासाम् । स्पृधाम् । सहःदाः । विद्याम । इषम् । वृजनम् । जीरदानुम् ॥tvam | asmākam | indra | viśvadha | syāḥ | avṛka-tamaḥ | narān | nṛ-pātā | saḥ | naḥ | viśvāsām | spṛdhām | sahaḥ-dāḥ | vidyāma | iṣam | vṛjanam | jīra-dānum