Sukta 1.169
महश्चित्त्वमिन्द्र यत एतान्महश्चिदसि त्यजसो वरूता । स नो वेधो मरुतां चिकित्वान्त्सुम्ना वनुष्व तव हि प्रेष्ठा ॥
म॒हश्चि॒त्त्वमि॑न्द्र य॒त ए॒तान्म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता । स नो॑ वेधो म॒रुतां॑ चिकि॒त्वान्त्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा॑ ॥
maháś cit tvám indra yátá etā́n maháś cid asi tyájaso varūtā́ | sá no vedho marútāṃ cikitvā́n sumnā́ vanuṣva táva hí préṣṭhā ||
You are indeed of the Vast, O Indra, from whom these powers come forth; you are indeed the protector by your luminous mastery. Therefore, O knower, discerning the Maruts, win for us your cherished graces—for your goodwill is the most beloved support in our journey.
म॒हः । चि॒त् । त्वम् । इ॒न्द्र॒ । य॒तः । ए॒तान् । म॒हः । चि॒त् । अ॒सि॒ । त्यज॑सः । व॒रू॒ता । सः । नः॒ । वे॒धः॒ । म॒रुता॑म् । चि॒कि॒त्वान् । सु॒म्ना । व॒नुष्व॒ । तव॑ । हि । प्रेष्ठा॑ ॥महः । चित् । त्वम् । इन्द्र । यतः । एतान् । महः । चित् । असि । त्यजसः । वरूता । सः । नः । वेधः । मरुताम् । चिकित्वान् । सुम्ना । वनुष्व । तव । हि । प्रेष्ठा ॥mahaḥ | cit | tvam | indra | yataḥ | etān | mahaḥ | cit | asi | tyajasaḥ | varūtā | saḥ | naḥ | vedhaḥ | marutām | cikitvān | sumnā | vanuṣva | tava | hi | preṣṭhā