Sukta 1.164
इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वेः । शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः ॥
इ॒ह ब्र॑वीतु॒ य ई॑म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः । शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो॑ अस्य व॒व्रिं वसा॑ना उद॒कं प॒दापु॑: ॥
ihá bravītu yá ī́m aṅgá védāsyá vā́masya ní-hitaṃ padáṃ véḥ | śīrṣṇáḥ kṣīráṃ duhrate gā́vo asya vavríṃ vásānā udakáṃ padā́puḥ ||
Let him speak here—who truly knows this hidden step of the beloved. From its head the cows milk out the milk; clothed in the covering, they have reached the water by the step.
इ॒ह । ब्र॒वी॒तु॒ । यः । ई॒म् । अ॒ङ्ग । वेद॑ । अ॒स्य । वा॒मस्य॑ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः । शी॒र्ष्णः । क्षी॒रम् । दु॒ह्र॒ते॒ । गावः॑ । अ॒स्य॒ । व॒व्रिम् । वसा॑नाः । उ॒द॒कम् । प॒दा । अ॒पुः॒ ॥इह । ब्रवीतु । यः । ईम् । अङ्ग । वेद । अस्य । वामस्य । निहितम् । पदम् । वेरिति वेः । शीर्ष्णः । क्षीरम् । दुह्रते । गावः । अस्य । वव्रिम् । वसानाः । उदकम् । पदा । अपुः ॥iha | bravītu | yaḥ | īm | aṅga | veda | asya | vāmasya | ni-hitam | padam | veri tiveḥ | śīrṣṇaḥ | kṣīram | duhrate | gāvaḥ | asya | vavrim | vasānāḥ | udakam | padā | apuḥ