Sukta 1.164
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑: सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥
yajñéna yajñám ayajanta devā́s tā́ni dhármāṇi prathamā́ny āsan | té ha nā́kaṃ mahimā́naḥ sacanta yátra pū́rve sā́dhyāḥ sánti devā́ḥ ||
By sacrifice the gods sacrificed the Sacrifice; those were the first foundations of the Law. By that greatness they reached the highest heaven, where the ancient Sādhyas, the accomplished divine powers, abide.
य॒ज्ञेन॑ । य॒ज्ञम् । अ॒य॒ज॒न्त॒ । दे॒वाः । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒सन् । ते । ह॒ । नाक॑म् । म॒हि॒मानः॑ । स॒च॒न्त॒ । यत्र॑ । पूर्वे॑ । सा॒ध्याः । सन्ति॑ । दे॒वाः ॥यज्ञेन । यज्ञम् । अयजन्त । देवाः । तानि । धर्माणि । प्रथमानि । आसन् । ते । ह । नाकम् । महिमानः । सचन्त । यत्र । पूर्वे । साध्याः । सन्ति । देवाः ॥yajñena | yajñam | ayajanta | devāḥ | tāni | dharmāṇi | prathamāni | āsan | te | ha | nākam | mahimānaḥ | sacanta | yatra | pūrve | sādhyāḥ | santi | devāḥ