Sukta 1.164
त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् । विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥
त्रय॑: के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषाम् । विश्व॒मेको॑ अ॒भि च॑ष्टे॒ शची॑भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पम् ॥
tráyaḥ keśína ṛtuthā́ ví cakṣate saṃvatsaré vápata éka eṣām | víśvam éko abhí caṣṭe śácībhir dhrā́jir ékasya dadr̥śe ná rūpám ||
Three long-haired powers behold in due seasons; in the year one of them shears. One alone, by his masteries (śacī), surveys the whole; the blazing rush (dhrāji) of the One is seen, but not his form.
त्रयः॑ । के॒शिनः॑ । ऋ॒तु॒ऽथा । वि । च॒क्ष॒ते॒ । स॒व्ँम्व॒त्स॒रे । व॒प॒ते॒ । एकः॑ । ए॒षा॒म् । विश्व॑म् । एकः॑ । अ॒भि । च॒ष्टे॒ । शची॑भिः । ध्राजिः॑ । एक॑स्य । द॒दृ॒शे॒ । न । रू॒पम् ॥त्रयः । केशिनः । ऋतुथा । वि । चक्षते । सव्ँम्वत्सरे । वपते । एकः । एषाम् । विश्वम् । एकः । अभि । चष्टे । शचीभिः । ध्राजिः । एकस्य । ददृशे । न । रूपम् ॥trayaḥ | keśinaḥ | ṛtu-thā | vi | cakṣate | saṃvatsare | vapate | ekaḥ | eṣām | viśvam | ekaḥ | abhi | caṣṭe | śacībhiḥ | dhrājiḥ | ekasya | dadṛśe | na | rūpam