Sukta 1.164
साकंजानां सप्तथमाहुरेकजं षळिद्यमा ऋषयो देवजा इति । तेषामिष्टानि विहितानि धामशः स्थात्रे रेजन्ते विकृतानि रूपशः ॥
सा॒कं॒जानां॑ स॒प्तथ॑माहुरेक॒जं षळिद्य॒मा ऋष॑यो देव॒जा इति॑ । तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥
sākáṁjānāṁ saptátham āhur ekajáṁ ṣáḷ íd yamā́ ṛ́ṣayo devajā́ íti | téṣām iṣṭā́ni víhitāni dhāmaśáḥ sthātré rejante víkṛtāni rūpaśáḥ ||
Of those born together they call the seventh the one-born; the six are the twins, say the seers born of the gods. Their chosen seats are arranged each in its own domain; they shine forth in the stable, taking forms in many variations.
सा॒क॒म्ऽजाना॑म् । स॒प्तथ॑म् । आ॒हुः॒ । ए॒क॒ऽजम् । षट् । इत् । य॒माः । ऋष॑यः । दे॒व॒ऽजाः । इति॑ । तेषा॑म् । इ॒ष्टानि॑ । विऽहि॑तानि । धा॒म॒ऽशः स्था॒त्रे । रे॒ज॒न्ते॒ । विऽकृ॑तानि । रू॒प॒ऽशः ॥साकम्जानाम् । सप्तथम् । आहुः । एकजम् । षट् । इत् । यमाः । ऋषयः । देवजाः । इति । तेषाम् । इष्टानि । विहितानि । धामशः स्थात्रे । रेजन्ते । विकृतानि । रूपशः ॥sākam-jānām | saptatham | āhuḥ | eka-jam | ṣaṭ | it | yamāḥ | ṛṣayaḥ | deva-jāḥ | iti | teṣām | iṣṭāni | vi-hitāni | dhāma-śaḥ sthātre | rejante | vi-kṛtāni | rūpa-śaḥ