Sukta 1.164
पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् । अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम् ॥
पञ्च॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ॑हु॒: परे॒ अर्धे॑ पुरी॒षिण॑म् । अथे॒मे अ॒न्य उप॑रे विचक्ष॒णं स॒प्तच॑क्रे॒ षळ॑र आहु॒रर्पि॑तम् ॥
páñcapādaṁ pitáraṁ dvādaśā́kṛtiṁ divá āhuḥ páre árdhe purīṣíṇam | áthemē anyá úpare vicakṣáṇaṁ saptácakre ṣáḷara āhur árpitam ||
They call the Father of Heaven five-footed and twelve-formed, full in the farther half. Others speak of the one above as the clear-seeing, set firm in a seven-wheeled, six-spoked order.
पञ्च॑ऽपादम् । पि॒तर॑म् । द्वाद॑शऽआकृतिम् । दि॒वः । आ॒हुः॒ । परे॑ । अर्धे॑ । पु॒री॒षिण॑म् । अथ॑ । इ॒मे । अ॒न्ये । उप॑रे । वि॒ऽच॒क्ष॒णम् । स॒प्तऽच॑क्रे । षट्ऽअ॑रे । आ॒हुः॒ । अर्पि॑तम् ॥पञ्चपादम् । पितरम् । द्वादशआकृतिम् । दिवः । आहुः । परे । अर्धे । पुरीषिणम् । अथ । इमे । अन्ये । उपरे । विचक्षणम् । सप्तचक्रे । षट्अरे । आहुः । अर्पितम् ॥pañca-pādam | pitaram | dvādaśa-ākṛtim | divaḥ | āhuḥ | pare | ardhe | purīṣiṇam | atha | ime | anye | upare | vi-cakṣaṇam | sapta-cakre | ṣaṭ-are | āhuḥ | arpitam