Sukta 1.142
आ भन्दमाने उपाके नक्तोषासा सुपेशसा । यह्वी ऋतस्य मातरा सीदतां बर्हिरा सुमत् ॥
आ भन्द॑माने॒ उपा॑के॒ नक्तो॒षासा॑ सु॒पेश॑सा । य॒ह्वी ऋ॒तस्य॑ मा॒तरा॒ सीद॑तां ब॒र्हिरा सु॒मत् ॥
ā́ bhándamāne upāké náktoṣásā su-péśasā | yahvī́ ṛtásya mā́tarā sī́datāṃ barhír ā́ su-mát ||
Let Night and Dawn, beautifully formed, come near in their meeting-place, shining together; those two mighty Mothers of the Truth—let them sit upon the sacred seat with a happy and right-minded favour, establishing rhythm and renewal in us.
आ । भन्द॑माने॒ इति॑ । उपा॑के॒ इति॑ । नक्तो॒षसा॑ । सु॒ऽपेष॑सा । य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ । सीद॑ताम् । ब॒र्हिः । आ । सु॒ऽमत् ॥आ । भन्दमाने इति । उपाके इति । नक्तोषसा । सुपेषसा । यह्वी इति । ऋतस्य । मातरा । सीदताम् । बर्हिः । आ । सुमत् ॥ā | bhandamāneiti | upāke iti | naktoṣasā | su-peṣasā | yahvī iti | ṛtasya | mātarā | sīdatām | barhiḥ | ā | su-mat