Sukta 1.139
मो षु वो अस्मदभि तानि पौंस्या सना भूवन्द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः । यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् । अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥
मो षु वो॑ अ॒स्मद॒भि तानि॒ पौंस्या॒ सना॑ भूवन्द्यु॒म्नानि॒ मोत जा॑रिषुर॒स्मत्पु॒रोत जा॑रिषुः । यद्व॑श्चि॒त्रं यु॒गेयु॑गे॒ नव्यं॒ घोषा॒दम॑र्त्यम् । अ॒स्मासु॒ तन्म॑रुतो॒ यच्च॑ दु॒ष्टरं॑ दिधृ॒ता यच्च॑ दु॒ष्टर॑म् ॥
mó ṣú vo asmád abhí tā́ni paúṃsyā sánā bhūvan dyumnā́ni mót jā́riṣur asmát puró t jā́riṣuḥ | yád vaś citráṃ yugé-yuge návyaṃ ghóṣād amártyam | asmā́su tán maruto yác ca duṣṭáraṃ didhṛtá yác ca duṣṭáram ||
May not those manly powers and ancient splendors turn away from us; may they not perish for us now or ever before. Whatever is your marvelous and ever-new immortal acclaim from age to age—O Maruts, place that in us; and whatever is hard to cross, place that too in us (as a mastered passage).
मो इति॑ । सु । वः॒ । अ॒स्मत् । अ॒भि । तानि॑ । पौंस्या॑ । सना॑ । भू॒व॒न् । द्यु॒म्नानि॑ । मा । उ॒त । जा॒रि॒षुः॒ । अ॒स्मत् । पु॒रा । उ॒त । जा॒रि॒षुः॒ । यत् । वः॒ । चि॒त्रम् । यु॒गेऽयु॑गे । नव्य॑म् । घोषा॑त् । अम॑र्त्यम् । अ॒स्मासु॑ । तत् । म॒रु॒तः॒ । यत् । च॒ । दुः॒ऽतर॑म् । दि॒धृ॒त । यत् । च॒ । दुः॒ऽतर॑म् ॥मो इति । सु । वः । अस्मत् । अभि । तानि । पौंस्या । सना । भूवन् । द्युम्नानि । मा । उत । जारिषुः । अस्मत् । पुरा । उत । जारिषुः । यत् । वः । चित्रम् । युगेयुगे । नव्यम् । घोषात् । अमर्त्यम् । अस्मासु । तत् । मरुतः । यत् । च । दुःतरम् । दिधृत । यत् । च । दुःतरम् ॥mo iti | su | vaḥ | asmat | abhi | tāni | paiṃsyā | sanā | bhūvan | dyumnāni | mā | uta | jāri ṣuḥ | asmat | purā | uta | jāriṣuḥ | yat | vaḥ | citram | yuge--yuge | navyam | ghoṣāt | amartyam | asmāsu | tat | marutaḥ | yat | ca | duḥ-taram | dcidhṛta | yat | ca | duḥ-taram