Sukta 1.123
ऋतस्य रश्मिमनुयच्छमाना भद्रम्भद्रं क्रतुमस्मासु धेहि । उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु च स्युः ॥
ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि । उषो॑ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो॑ म॒घव॑त्सु च स्युः ॥
ṛtásya raśmím anu-yácchamānā bhadrám-bhadráṃ krátum asmā́su dhehi | úṣo no adyá su-hávā vy ùcchā́smā́su rā́yo maghávat-su ca syuḥ ||
Following the ray of Ṛta, set within us an ever more auspicious will of right working. O Dawn, today shine out for us, easy to invoke; may the plenitudes of being become in us—and in our powers of giving—firmly established.
ऋ॒तस्य॑ । र॒श्मिम् । अ॒नु॒ऽयच्छ॑माना । भ॒द्रम्ऽभ॑द्रम् । क्रतु॑म् । अ॒स्मासु॑ । धे॒हि॒ । उषः॑ । नः॒ । अ॒द्य । सु॒ऽहवा॑ । वि । उ॒च्छ॒ । अ॒स्मासु॑ । रायः॑ । म॒घव॑त्ऽसु । च॒ । स्यु॒रिति॑ स्युः ॥ऋतस्य । रश्मिम् । अनुयच्छमाना । भद्रम्भद्रम् । क्रतुम् । अस्मासु । धेहि । उषः । नः । अद्य । सुहवा । वि । उच्छ । अस्मासु । रायः । मघवत्सु । च । स्युरिति स्युः ॥ṛtasya | raśmim | anu-yacchamānā | bhadram-bhadram | kratum | asmāsu | dhehi | uṣaḥ | naḥ | adya | su-havā | vi | uccha | asmāsu | rāyaḥ | maghavat-su | ca | syuriti syuḥ