Sukta 1.123
पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः । कृष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषाय क्षयाय ॥
पृ॒थू रथो॒ दक्षि॑णाया अयो॒ज्यैनं॑ दे॒वासो॑ अ॒मृता॑सो अस्थुः । कृ॒ष्णादुद॑स्थाद॒र्या॒३॒॑ विहा॑या॒श्चिकि॑त्सन्ती॒ मानु॑षाय॒ क्षया॑य ॥
pṛthū́ rátho dákṣiṇāyā ayójy áinaṃ devā́so amṛ́tāso asthuḥ | kṛṣṇā́d úd asthād aryā́ ví-hāyāś cíkitsantī mā́nuṣāya kṣáyāya ||
Wide is the chariot of the divine Dakṣiṇā; the immortal gods have mounted it. From the blackness she rises upward—the noble one of far space—consciously discerning for the human dwelling-place.
पृ॒थुः । रथः॑ । दक्षि॑णायाः । अ॒यो॒जि॒ । आ । एन॑म् । दे॒वासः॑ । अ॒मृता॑सः । अ॒स्थुः॒ । कृ॒ष्णात् । उत् । अ॒स्था॒त् । अ॒र्या॑ । विऽहा॑याः । चिकि॑त्सन्ती । मानु॑षाय । क्षया॑य ॥पृथुः । रथः । दक्षिणायाः । अयोजि । आ । एनम् । देवासः । अमृतासः । अस्थुः । कृष्णात् । उत् । अस्थात् । अर्या । विहायाः । चिकित्सन्ती । मानुषाय । क्षयाय ॥pṛthuḥ | rathaḥ | dakṣiṇāyāḥ | ayoji | ā | enam | devāsaḥ | amṛtāsaḥ | asthuḥ | kṛṣṇāt | ut | asthāt | aryā | vi-hāyāḥ | cikitsantī | mānuṣāya | kṣayāya