Sukta 1.120
का राधद्धोत्राश्विना वां को वां जोष उभयोः । कथा विधात्यप्रचेताः ॥
का रा॑ध॒द्धोत्रा॑श्विना वां॒ को वां॒ जोष॑ उ॒भयो॑: । क॒था वि॑धा॒त्यप्र॑चेताः ॥
kā́ rā́dhad hótrā aśvinā vāṃ kó vāṃ jóṣa ubháyoḥ | kathā́ vidhā́ty ápra-cetāḥ ||
What offering-force will win you, O Aśvins? What delight of ours will satisfy you both? How shall one who is not yet awake arrange the right disposition (of the inner rite) for you?
का । रा॒ध॒त् । होत्रा॑ । अ॒श्वि॒ना॒ । वा॒म् । कः । वा॒म् । जोषे॑ । उ॒भयोः॑ । क॒था । वि॒धा॒ति॒ । अप्र॑ऽचेताः ॥का । राधत् । होत्रा । अश्विना । वाम् । कः । वाम् । जोषे । उभयोः । कथा । विधाति । अप्रचेताः ॥kā | rādhat | hotrā | aśvinā | vām | kaḥ | vām | joṣe | ubhayoḥ | kathā | vidhāti | apra-cetāḥ