Sukta 1.12
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ॥
अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥
agníṃ dūtáṃ vṛṇīmahe hótāraṃ viśvá-vedasam | asyá yajñásya su-krátum ||
We choose Agni as the messenger—the inner envoy of the Divine—who stands as our invoking priest, knower of all; may he be the luminous and right-effective will for this sacrifice of self-offering.
अ॒ग्निम् । दू॒तम् । वृ॒णी॒म॒हे॒ । होता॑रम् । वि॒श्वऽवे॑दसम् । अ॒स्य । य॒ज्ञस्य॑ । सु॒ऽक्रतु॑म् ॥अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्ववेदसम् । अस्य । यज्ञस्य । सुक्रतुम् ॥agnim | dūtam | vṛṇīmahe | hotāram | viśva-vedasam | asya | yajñasya | su-kratum