Sukta 1.115
अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
adyā́ devā́ udítā sū́ryasya nír aṃ́hasaḥ pipṛtā́ nír avadyā́t | tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ||
Today, O gods, with the rising of the Sun, deliver us out of distress, deliver us out of fault. May Mitra and Varuṇa enlarge us; may Aditi, the River (Sindhu), Earth and Heaven foster us—so that the whole order of existence supports our passage into truth and wideness.
अ॒द्य । दे॒वाः॒ । उत्ऽइ॑ता॑ । सूर्य॑स्य । निः । अंह॑सः । पि॒पृ॒त । निः । अ॒व॒द्यात् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥अद्य । देवाः । उत्इता । सूर्यस्य । निः । अंहसः । पिपृत । निः । अवद्यात् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥adya | devāḥ | ut-itā | sūryasya | niḥ | aṃhasaḥ | pipṛta | niḥ | avadyāt | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ