Sukta 1.11
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमं रथीनां वाजानां सत्पतिं पतिम् ॥
इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिर॑: । र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म् ॥
índraṃ viśvā́ avīvṛdhan samudrávyacasaṃ gíraḥ | rathī́tamam rathī́nāṃ vā́jānāṃ sátpatiṃ pátim ||
All the utterances have increased Indra, wide as the ocean in his outspread being—most charioteer among charioteers, lord of the plenitudes of force, the master-leader of the true ones.
इन्द्र॑म् । विश्वाः॑ । अ॒वी॒वृ॒ध॒न् । स॒मु॒द्रऽव्य॑चसम् । गिरः॑ । र॒थिऽत॑मम् । र॒थीना॑म् । वाजा॑नाम् । सत्ऽप॑तिम् । पति॑म् ॥इन्द्रम् । विश्वाः । अवीवृधन् । समुद्रव्यचसम् । गिरः । रथितमम् । रथीनाम् । वाजानाम् । सत्पतिम् । पतिम् ॥indram | viśvāḥ | avīvṛdhan | samudra-vyacasam | giraḥ | rathi-tamam | rathīnām | vājānām | sat-patim | patim