Sukta 1.104
अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय । उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥
अ॒र्वाङेहि॒ सोम॑कामं त्वाहुर॒यं सु॒तस्तस्य॑ पिबा॒ मदा॑य । उ॒रु॒व्यचा॑ ज॒ठर॒ आ वृ॑षस्व पि॒तेव॑ नः शृणुहि हू॒यमा॑नः ॥
arvā́ṅ ehi sómakāmaṃ tvāhur ayáṃ sutás tásya pibā mádāya | uru-vyácā jaṭhára ā́ vṛṣasva pitā́iva naḥ śṛṇuhi hūyámānaḥ ||
Come hither, O lover of Soma—they call you; this Soma is pressed, drink of it for the ecstasy. O wide-pervading, grow strong in the belly; like a father, hear us as we call—answer the voice of the seeking.
अ॒र्वाङ् । आ । इ॒हि॒ । सोम॑ऽकामम् । त्वा॒ । आ॒हुः॒ । अ॒यम् । सु॒तः । तस्य॑ । पि॒ब॒ । मदा॑य । उ॒रु॒ऽव्यचाः॑ । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ । पि॒ताऽइ॑व । नः॒ । शृ॒णु॒हि॒ । हू॒यमा॑नः ॥अर्वाङ् । आ । इहि । सोमकामम् । त्वा । आहुः । अयम् । सुतः । तस्य । पिब । मदाय । उरुव्यचाः । जठरे । आ । वृषस्व । पिताइव । नः । शृणुहि । हूयमानः ॥arvāṅ | ā | ihi | soma-kāmam | tvā | āhuḥ | ayam | sutaḥ | tasya | piba | madāya | uru-vyacāḥ | jaṭhare | ā | vṛṣasva | pitāiva | naḥ | śṛṇuhi | hūyamānaḥ