Sukta 1.10
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥
गाय॑न्ति त्वा गाय॒त्रिणोऽर्च॑न्त्य॒र्कम॒र्किण॑: । ब्र॒ह्माण॑स्त्वा शतक्रत॒ उद्वं॒शमि॑व येमिरे ॥
gā́yanti tvā gāyatríṇo ’rcánty arkam arkíṇaḥ | brahmā́ṇas tvā śatakrato úd vaṃśám iva yemire ||
The chanters of the Gayatrī sing to thee; the seers of the hymn affirm thy luminous Word. O Śatakratu, the brahmāṇas uplift thee, as one raises a bamboo-staff—so that the Power of many workings may stand erect in us and lead the ascent.
गाय॑न्ति । त्वा॒ । गा॒य॒त्रिणः॑ । अर्च॑न्ति । अ॒र्कम् । अ॒र्किणः॑ । ब्र॒ह्माणः॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । उत् । वं॒शम्ऽइ॑व । ये॒मि॒रे॒ ॥गायन्ति । त्वा । गायत्रिणः । अर्चन्ति । अर्कम् । अर्किणः । ब्रह्माणः । त्वा । शतक्रतो इति शतक्रतो । उत् । वंशम्इव । येमिरे ॥gāyanti | tvā | gāyatriṇaḥ | arcanti | arkam | arkiṇaḥ | brahmāṇaḥ | tvā | śatakrato itiśata-krato | ut | vaṃśam-iva | yemire