HomeUpanishadsGarbhaVerse 3
Previous Verse
Next Verse

Verse 3

Garbha

ऋतुकाले सम्प्रयोगादेकरात्रोषितं कलिलं भवति, सप्तरात्रोषितं बुद्बुदं भवति, अर्धमासाभ्यन्तरेण पिण्डो भवति, मासाभ्यन्तरेण कठिनो भवति, मासद्वयेन शिरः सम्पद्यते, मासत्रयेण पादप्रवेशो भवति । अथ चतुर्थे मासे जठरकटिप्रदेशो भवति । पञ्चमे मासे पृष्ठवंशो भवति । षष्ठे मासे मुखनासिकाक्षिश्रोत्राणि भवन्ति । सप्तमे मासे जीवेन संयुक्तो भवति । अष्टमे मासे सर्वसम्पूर्णो भवति ।

पितू रेतोऽतिरिक्तात् पुरुषो भवति । मातुः रेतोऽतिरिक्तात् स्त्रियो भवन्ति । उभयोर्बीजतुल्यत्वान्नपुंसको भवति । व्याकुलितमनसोऽन्धाः खञ्जाः कुब्जा वामना भवन्ति । अन्योन्यवायुपरिपीडितशुक्रद्वैध्याद्द्विधा तनुः स्यात्, ततो युग्माः प्रजायन्ते ॥

पञ्चात्मकः समर्थः पञ्चात्मकतेजसेद्धरसश्च सम्यग्ज्ञानात् ध्यानात् अक्षरमोङ्कारं चिन्तयति । तदेतदेकाक्षरं ज्ञात्वाऽष्टौ प्रकृतयः षोडश विकाराः शरीरे तस्यैव देहिनाम् । अथ मात्राऽशितपीतनाडीसूत्रगतेन प्राण आप्यायते । अथ नवमे मासि सर्वलक्षणसम्पूर्णो भवति, पूर्वजातीः स्मरति, कृताकृतं च कर्म विभाति, शुभाशुभं च कर्म विन्दति ॥३॥

ऋतु-काले । सम्प्रयोगात् । एक-रात्र-उषितम् । कलिलम् । भवति । सप्त-रात्र-उषितम् । बुद्बुदम् । भवति । अर्ध-मास-अभ्यन्तरेण । पिण्डः । भवति । मास-अभ्यन्तरेण । कठिनः । भवति । मास-द्वयेन । शिरः । सम्पद्यते । मास-त्रयेण । पाद-प्रवेशः । भवति ॥

अथ । चतुर्थे । मासे । जठर-कटि-प्रदेशः । भवति । पञ्चमे । मासे । पृष्ठ-वंशः । भवति । षष्ठे । मासे । मुख-नासिका-अक्षि-श्रोत्राणि । भवन्ति । सप्तमे । मासे । जीवेन । संयुक्तः । भवति । अष्टमे । मासे । सर्व-सम्पूर्णः । भवति ॥

पितुः । रेतः । अतिरिक्तात् । पुरुषः । भवति । मातुः । रेतः । अतिरिक्तात् । स्त्रियः । भवन्ति । उभयोः । बीज-तुल्यत्वात् । नपुंसकः । भवति । व्याकुलित-मनसः । अन्धाः । खञ्जाः । कुब्जाः । वामनाः । भवन्ति । अन्योन्य-वायु-परिपीडित । शुक्र-द्वैध्यात् । द्विधा । तनुः । स्यात् । ततः । युग्माः । प्रजायन्ते ॥

पञ्च-आत्मकः । समर्थः । पञ्च-आत्मक-तेजसा । इद्ध-रसः । च । सम्यक्-ज्ञानात् । ध्यानात् । अक्षरम् । ओङ्कारम् । चिन्तयति ॥

तत् । एतत् । एक-अक्षरम् । ज्ञात्वा । अष्टौ । प्रकृतयः । षोडश । विकाराः । शरीरे । तस्य । एव । देहिनाम् ॥

अथ । मात्रा-आशित-पीत-नाडी-सूत्र-गतेन । प्राणः । आप्यायते । अथ । नवमे । मासि । सर्व-लक्षण-सम्पूर्णः । भवति । पूर्व-जातीः । स्मरति । कृत-अकृतम् । च । कर्म । विभाति । शुभ-अशुभम् । च । कर्म । विन्दति ॥

ṛtukāle samprayogād ekarātroṣitaṃ kalilaṃ bhavati, saptarātroṣitaṃ budbudaṃ bhavati, ardhamāsābhyantareṇa piṇḍo bhavati, māsābhyantareṇa kaṭhino bhavati, māsadvayena śiraḥ sampadyate, māsatrayeṇa pādapraveśo bhavati | atha caturthe māse jaṭharakaṭipradeśo bhavati | pañcame māse pṛṣṭhavaṃśo bhavati | ṣaṣṭhe māse mukhanāsikākṣiśrotrāṇi bhavanti | saptame māse jīvena saṃyukto bhavati | aṣṭame māse sarvasampūrṇo bhavati |

pitu reto'tiriktāt puruṣo bhavati | mātuḥ reto'tiriktāt striyo bhavanti | ubhayor bījātulyatvān napuṃsako bhavati | vyākulitamanaso'ndhāḥ khañjāḥ kubjā vāmanā bhavanti | anyonyavāyuparipīḍitaśukradvaidhyād dvidhā tanūḥ syāt, tato yugmāḥ prajāyante ||

pañcātmakaḥ samarthaḥ pañcātmakatejasā iddharasaś ca samyagjñānāt dhyānāt akṣaram oṅkāraṃ cintayati | tad etad ekākṣaraṃ jñātvā'ṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinām | atha mātrā'śitapītanāḍīsūtragatena prāṇa āpyāyate | atha navame māsi sarvalakṣaṇasampūrṇo bhavati, pūrvajātīḥ smarati, kṛtākṛtaṃ ca karma vibhāti, śubhāśubhaṃ ca karma vindati ||3||

Aus der Vereinigung zur rechten Zeit wird es nach einer Nacht zu kalila (einer gallertartigen Masse); nach sieben Nächten wird es zu budbuda (einer Blase); innerhalb eines halben Monats wird es zu einem Klumpen; innerhalb eines Monats wird es fest; in zwei Monaten bildet sich der Kopf; in drei Monaten erfolgt die Ausbildung der Füße. Dann, im vierten Monat, entsteht die Gegend von Bauch und Hüften; im fünften Monat entsteht die Wirbelsäule; im sechsten Monat entstehen Mund, Nase, Augen und Ohren; im siebten Monat wird es mit dem Jīva verbunden; im achten Monat ist es vollständig vollendet. Durch Übermaß des Samens des Vaters entsteht ein männliches Wesen; durch Übermaß des Samens der Mutter entstehen weibliche; durch Gleichheit beider Samen entsteht ein geschlechtsunbestimmtes. Durch Unruhe des Geistes (der Mutter) werden Blinde, Lahme, Bucklige oder Zwerge geboren. Durch Spaltung des Samens infolge gegenseitigen Drucks der Winde wird der Leib zweifach; dann werden Zwillinge geboren. Das fähige Fünffache, dessen Essenz durch das fünffache Feuer entflammt ist, betrachtet durch rechtes Wissen und Meditation die unvergängliche Silbe Oṃ. Hat man diese eine Silbe erkannt, (zeigen sich) die acht Prakṛtis und die sechzehn Wandlungen im Körper der Verkörperten. Dann wird, durch den Faden der Nāḍīs, die das Maß an Speise und Trank führen, der Prāṇa genährt. Im neunten Monat ist es an allen Merkmalen vollendet, erinnert frühere Geburten, unterscheidet getane und ungetane Werke und erkennt heilsames und unheilsames Karma.

From union in the season, after one night it becomes a ‘kalila’ (a gelatinous mass); after seven nights it becomes a ‘budbuda’ (a bubble); within half a month it becomes a lump; within a month it becomes firm; in two months the head is formed; in three months the entry/formation of the feet occurs. Then in the fourth month the region of the abdomen and hips forms; in the fifth month the spinal column forms; in the sixth month the mouth, nose, eyes, and ears form; in the seventh month it becomes conjoined with the jīva; in the eighth month it becomes fully complete. From excess of the father’s seed a male results; from excess of the mother’s seed females result; from equality of the two seeds a neuter/sex-indeterminate results. From disturbance of the mind (of the mother) the offspring become blind, lame, hunchbacked, or dwarfed. From division of semen due to mutual pressure of winds, the body becomes twofold; then twins are born. The capable fivefold (being), with essence kindled by the fivefold fire, through right knowledge and meditation contemplates the imperishable syllable Oṃ. Having known that one syllable, (there are) the eight prakṛtis and the sixteen modifications in the body of embodied beings. Then, by the channel-thread of the nāḍīs carrying the measured food and drink, prāṇa is nourished. Then in the ninth month it becomes complete with all marks; it remembers former births; it discerns deeds done and not done, and it apprehends auspicious and inauspicious karma.

Karma-saṃskāra and jīva-śarīra sambandha; Oṃ as upāsya leading toward Brahman-knowledgeMahavakya: Indirect—Oṃ-upāsanā supports realization implied by mahāvākyas; the text is more aligned with praṇava as a pointer to Brahman than with a direct identity statement.AtharvaChandas: Prose (gadya)