उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः । सोम॑मिन्द्र च॒मू सु॒तम् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒ त्वौज॑स ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वौजसे । इन्द्रौ॑जिष्ठौजि॑ष्ठ॒स्त्वं दे॒वेष्वस्योजि॑ष्ठो॒ऽहं म॑नु॒ष्ये॒षु भूयासम्
uttíṣṭhann ójasā sahá pītvī́ śípre avepayaḥ | sómam indra camū́ sutám | upayā́magṛhīto ’sī́ndrāya tvā́ ojása eṣá te yóniḥ índrāya tvā ojáse | índraujiṣṭhaujiṣṭhas tvaṁ devéṣv asy ójiṣṭho ’háṁ manuṣyéṣu bhūyāsam
Aufstehend mit Kraft, nachdem du getrunken hattest, ließest du deine Lippen beben: o Indra, (nimm) den Soma, im Becher gepresst. Mit dem Upayāma ergriffen bist du für Indra, für die Macht; dies ist dein Schoß — für Indra, für die Macht. O Indra, der Mächtigste der Mächtigen bist du unter den Göttern; möge auch ich unter den Menschen der Mächtigste sein.
उत्-तिष्ठन् । ओजसा । सह । पीत्वी । शिप्रे इति । अवेपयः । सोमम् । इन्द्र । चमू । सुतम् । उप-याम-गृहीतः । असि । इन्द्राय । त्वा । ओजसे । एषः । ते । योनिः । इन्द्राय । त्वा । ओजसे । इन्द्र । ओजिष्ठ-ओजिष्ठः । त्वम् । देवेषु । असि । ओजिष्ठः । अहम् । मनुष्येषु । भूयासम्